०४३ सिद्धेश्वरमहिमवर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सिद्धलिङ्गं सुसिद्धिदम्॥
सिद्धैस्तु स्थापितं लिङ्गं सर्वपातकनाशनम् ॥ १ ॥
तत्रास्ति शोभनं कुण्डं सुनिर्मलजलान्वितम् ॥
तत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥ २ ॥
यंयं काममभिध्यायंस्तत्र स्नाति नरो नृप ॥
अवश्यं तमवाप्नोति निष्ठान्ते च परां गतिम् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे सिद्धेश्वरमहिमवर्णनन्नाम त्रयश्चत्वारिंशोऽध्यायः ॥४३॥