॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ लिङ्गं पापहरं परम्॥
उद्दालकेन मुनिना स्थापितं लोकविश्रुतम् ॥ १ ॥
तस्मिन्स्पृष्टेऽथ वा दृष्टे पूजिते च विशेषतः ॥
सर्वरोग विनिर्मुक्तो गार्हस्थ्यं प्राप्नुयान्नरः ॥ २ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उद्दालकेश्वरमाहात्म्यवर्णनन्नाम द्विचत्वारिंशोऽध्यायः ॥४२ ॥