॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ चक्रतीर्थमनुत्तमम् ॥
यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना ॥ १ ॥
निहत्य दानवान्सङ्ख्ये कृत्वा स्नानं सुनिर्झरे ॥
विष्णुः प्राक्षालयत्तोयं तेन तन्मेध्यतां गतम् ॥ २ ॥
तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः ॥
आकल्पं पितरस्तस्य तृप्तिं यान्ति नराधिप ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चक्रतीर्थप्रभाववर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥