०२६ कनखलतीर्थमाहात्म्यवर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
तस्मिन्कनखलन्नाम पर्वते पापनाशने ॥ १ ॥
शृणु तत्राऽभवत्पूर्वं यदाश्चर्यं महीपते ॥
पार्थिवः सुमतिर्नाम सम्प्राप्तोऽर्बुदपर्वते ॥२॥
सूर्यग्रहे महीपाल तीर्थं कनखलं गतः ॥
तेन विप्रार्थमानीतं सुवर्णं जात्यमेव हि ॥३॥
प्रभूतं पतितं तोये प्रमादात्तस्य भूपतेः ॥
न लब्धं तेन भूपाल अन्वेषणपरेण च ॥ ४ ॥
ततः स्नात्वा गृहं प्राप्तः पश्चात्तापसमन्वितः ॥
ततः कालेन महता स भूयस्तत्र चागतः ॥ ५ ॥
स्नानार्थं भास्करे ग्रस्ते तं च देशमपश्यत ॥
चिन्तयामास मेधावी ह्यस्मिन्देशे तदा मम ॥ ६ ॥
सुवर्णं पतितं हस्तान्न च लब्धं कथञ्चन ॥ ७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं चिन्तयतस्तस्य वागुवाचाशरीरिणी ॥
नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च ॥ ८ ॥
अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम् ॥
पश्चात्तापस्त्वया भूरि कृतो यद्द्रव्यनाशने ॥ ९ ॥
तस्मात्सङ्ख्या च सञ्जाता तथैवाकल्पितस्य च ॥
येऽत्र श्रद्धासमायुक्ताः सुवर्णैर्नृपसत्तम ॥
यत्नाच्छ्राद्धं करिष्यन्ति सुवर्णं च विशेषतः ॥ 7.3.26.१० ॥
ब्राह्मणेभ्यः प्रदास्यन्ति सङ्ख्या तस्य न विद्यते ॥
अत्रान्वेषय देशे त्वं प्राप्स्यसे नाऽत्र संशयः ॥ ११ ॥
स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप ॥
अन्वेषमाणोऽस्मिन्देशे सुवर्णं तच्च लब्धवान् ॥ १२ ॥
शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः ॥
ज्ञात्वा तीर्थप्रभावं तं ब्राह्मणेभ्यः सहस्रशः ॥
प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः ॥ १३ ॥
ततस्तस्य प्रभावेण स दानस्य महीपतिः ॥
सञ्जातो धनदोनाम यक्षो नानाधनप्रदः ॥ १४ ॥
तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप ॥
आकल्पं पितरस्तस्य तृप्तिं यान्ति सुतर्पिताः ॥ १५ ॥
स्नानेन ऋषयो देवास्तुष्टिं यान्ति महोरगाः ॥
नाशः सञ्जायते सद्यः पापस्य पृथिवीपते ॥ १६ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
यथाशक्त्या तथा दानं श्राद्धं च नृपसत्तम ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कनखलतीर्थमाहात्म्यवर्णनन्नाम षङ्विंशोऽध्यायः ॥ ॥ २६ ॥ ॥