॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेत चन्द्रेशं प्रभासं नृपसत्तम ॥
प्रभा तत्र पुरा प्राप्ता चन्द्रेण सुमहात्मना ॥ १ ॥
दक्षस्य कन्यका राजन्सप्तविंशतिसङ्ख्यया ॥
ऊढाश्चन्द्रेण ताः सर्वा अश्विनीप्रमुखाः पुरा ॥ २ ॥
तासां मध्ये च रोहिण्या सह रेमे स नित्यदा ॥
त्यक्ताः सर्वाश्च चन्द्रेण दक्षकन्याः सुदुःखिताः ॥
गत्वा स्वपितरं नत्वा प्राहुरस्राविलेक्षणाः ॥ ३ ॥
वयं त्यक्ताः प्रजानाथ निर्दोषाः पतिना ततः ॥
शरणं त्वामनुप्राप्ता दुःखेन महतान्विताः ॥ ४ ॥
गतिर्भव सुरश्रेष्ठ सर्वेषां त्वं हितं कुरु ॥
अस्माकमुपदिश्यैनं चन्द्रं च रोहिणीरतम् ॥ ५ ॥
॥ पुलस्त्य उवाच ॥ ॥
स तासां वचनं श्रुत्वा गतो यत्र निशाकरः ॥
अब्रवीच्च समं पश्य सर्वासु तनयासु मे ॥ ६ ॥
अथ व्रीडासमायुक्तश्चन्द्रस्तं प्रत्यभाषत ॥
तव वाक्यं करिष्यामि दक्ष गच्छ नमोस्तु ते ॥ ७ ॥
गते दक्षे ततो भूयश्चन्द्रमा रोहिणीरतः ॥
त्यक्त्वा च कन्यकाः सर्वाः प्रजापतिसमुद्भवाः ॥ ८ ॥
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः ॥
न कृतं तव वाक्यं वै चन्द्रेणैव दुरात्मना ॥ ९ ॥
दौर्भाग्यदुःखसन्तप्ता मरिष्याम न संशयः ॥
अनेन जीवितेनापि मरणं निश्चयं भवेत् ॥ 7.3.20.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
अथ रोषसमायुक्तो दक्षो गत्वाऽब्रवीद्विधुम् ॥
मम वाक्यं त्वया चन्द्र यस्मात्पाप कृतं न हि ॥ ११ ॥
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः॥
एवं दत्त्वा ततः शापं गतो दक्षः स्वमालयम् ॥ १२ ॥
यक्ष्मणा व्यापितश्चन्द्रः क्षयं याति दिनेदिने ॥
क्षीणो द्युतिविहीनस्तु चिन्तयामास चन्द्रमाः ॥ १३ ॥
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे ॥
अथ किं पूजयिष्यामि सर्वकामप्रदं शिवम् ॥ १४ ॥
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम् ॥
तपस्तेपे जितक्रोधो जपहोमपरायणः ॥ १५ ॥
तस्मै तुष्टो महादेवो वर्षाणामयुते गते ॥
अब्रवीद्वरदोऽस्मीति ततोऽस्मै दर्शनं ददौ ॥ १६ ॥
॥ ईश्वर उवाच ॥ ॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥
तव दास्याम्यहं चन्द्र यद्यपि स्यात्सुदुर्ल्लभम्॥ १७ ॥
॥ चन्द्र उवाच॥ ॥
व्याधिक्षयं सुरश्रेष्ठ कुरु मे त्रिपुरान्तक ॥
यक्ष्मणा व्यापितो देहो ममायं च जगत्पते ॥ १८ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षशापेन ते चन्द्र यक्ष्मा काये व्यवस्थितः ॥
न शक्तो ह्यन्यथा कर्तुं शापस्तस्य महात्मनः ॥१९॥
तस्मात्त्वं तस्य ताः सर्वाः कन्यका मम वाक्यतः ॥
निशाकर समं पश्य तव व्याधिर्गमिष्यति ॥ 7.3.20.२० ॥
कृष्णे क्षयश्च ते चन्द्र शुक्ले वृद्धिर्भविष्यति ॥
वरं वरय भद्रं ते अन्यमिष्टं सुदुर्ल्लभम्॥२१ ॥
॥ चन्द्र उवाच ॥ ॥
चन्द्रग्रहे नरो योऽत्र सोमवारे च शङ्कर ॥
भक्त्या स्नानं करोत्येव स यातु परमां गतिम् ॥ २२ ॥
पिण्डदानेन देवेश स्वर्गं गच्छन्तु पूर्वजाः ॥
प्रसादात्तव देवेश तीर्थं भवतु मुक्तिदम् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
भविष्यन्ति नरोऽत्रैव विपाप्मानो निशाकर ॥
यस्मात्प्रभा त्वया प्राप्ता तीर्थेऽस्मिन्विमलोदके॥ २४ ॥
प्रभासतीर्थं विख्यातं तस्मादेतद्भविष्यति॥
यत्र सोमग्रहे प्राप्ते सोमवारे विशेषतः ॥ २५ ॥
करिष्यन्ति नराः स्नानं ते यास्यन्ति परां गतिम् ॥
येऽत्र श्राद्धं करिष्यन्ति पिण्डदानं तथा नराः ॥ ॥ २६ ॥
गयाश्राद्धसमं पुण्यं तेषां चन्द्र भविष्यति ॥
तथा दानं प्रकर्तव्यं सोम लोकैर्ग्रहे तव ॥ २७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा विरूपाक्षस्तत्रैवान्तरधीयत ॥
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसम्भवाः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रप्रभासतीर्थमाहात्म्यवर्णनन्नाम विंशोऽध्यायः ॥ २० ॥ ॥