॥ पुलस्त्य उवाच ॥ ॥
ततः शुक्रेश्वरं गच्छेच्छुक्रेण स्थापितं पुरा ॥
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते ॥ १ ॥
दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम ॥
चिन्तयामास मेधावी भार्गवस्तान्प्रति द्विजः ॥ २ ॥
कथं दैत्याः सुराञ्जित्वा प्राप्स्यन्ति च महायशः ॥
आराध्य शङ्करं सिद्धिं गच्छामि मनसेप्सितम् ॥ ३ ॥
एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम् ॥
भूमे विवरमासाद्य तपस्तेपे सुदारुणम् ॥ ४ ॥
शिवलिङ्गं प्रतिष्ठाप्य धूपगन्धानुलेपनैः ॥
अनिशं पूजयामास श्रद्धया परयान्वितः ॥ ५ ॥
ततो वर्षसहस्रान्ते तुतोष भगवाञ्छिवः ॥
तस्य सन्दर्शनं दत्त्वा वाक्यमेतदुवाच ह ॥ ६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
परितुष्टोऽस्मि ते विप्र भक्त्या तव द्विजोत्तम ॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम् ॥ ७ ॥
॥ शुक्र उवाच ॥ ॥
यदि तुष्टो महादेव विद्यां देहि महेश्वर ॥
यया जीवन्ति सम्प्राप्ता मृत्युं सङ्ख्येपि जन्तवः ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
प्रदाय वै शिवस्तस्मै तां विद्यां नृपसत्तम ॥
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे ॥ ९ ॥
॥ शुक्र उवाच ॥ ॥
एतत्कार्तिकमासस्य शुक्लाष्टम्यां तु यः स्पृशेत् ॥
ततो लिङ्गं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः॥ 7.3.15.१० ॥
अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः ॥
इष्टान्कामानवाप्नोतु इहलोके परत्र च ॥ ११ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति स प्रोच्य तत्रैवान्तरधीयत ॥
शुक्रोपि दानवान्सङ्ख्ये हतान्देवैरनेकशः ॥१२॥
विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः ॥
तस्याग्रेऽस्मिन्महाकुण्डं निर्मलं पापनाशनम् ॥ १३ ॥
तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते ॥
तत्र श्राद्धेन राजेन्द्र तुष्टा यान्ति पितामहाः ॥ १४ ॥
तर्पिताः सलिलेनैव किं पुनः पिण्डदानतः ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥ १५ ॥
इति श्रीस्कान्दे महापुराणएकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे शुक्रेश्वरमाहात्म्यवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥