॥ सारस्वत उवाच ॥ ॥
गङ्गोदकं मधुघृते कुङ्कुमागुरुचन्द नम् ॥
गुग्गुलं बिल्वपत्राणि बकपुष्पं च यो वहेत् ॥ १ ॥
पदचारी शुचितनुर्भारं स्कन्धे निधाय च ॥
तीर्थे स्नात्वा शिवं विष्णुं ब्रह्माणं शङ्करं प्रियम् ॥ २ ॥
दृष्ट्वा निवेदयेद्यस्तु स मुक्तः सर्वबन्धनैः ॥
स नरो गणतां याति यावदाभूतसम्प्लवम् ॥ ३ ॥
कलत्रमित्रपुत्रैर्वा भ्रातृभिः स्वजनैर्नरैः ॥
सहितो वा नरैर्याति तीर्थे देवं विचिन्त्य च ॥ ४ ॥
देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥
चन्दनागुरुकर्पूरैरर्चितां कुङ्कुमेन च ॥ ५ ॥
पूजयन्विविधैः पुष्पैर्धूपदीपादिकैर्नृप ॥
गीतनृत्यैः सवादित्रैर्हास्यलास्यैरनेकधा ॥ ६ ॥
धरित्रीं काञ्चनं गाश्च जलान्नवसनानि च ॥
तृणेन्धने प्रियां वाणीं यच्छन्याति नरो यदि ॥ ७ ॥
देवाङ्गनाकरग्राहगृहीतो नन्दनं वनम् ॥
प्राप्य भुङ्क्ते शुभान्भोगान्यावदाचन्द्रतारकम् ॥ ८ ॥
तीर्थे सञ्चरितः पुरुषो रोगैः प्राणान्विमुञ्चति ॥
अदृष्ट्वा दैवतं तीर्थे दृष्टतीर्थफलं लभेत् ॥ ९ ॥
संसारदोषान्विविधान्विचिन्त्य स्त्रीपुत्रमित्रेष्वपि बन्धमुक्तः ॥
विज्ञाय बद्धं पुरुषं प्रधानैः स सर्वतीर्थानि करोति देहम् ॥ 7.2.12.१० ॥
आजन्मजन्मान्न्तरसञ्चितानि दग्ध्वा स पापानि नरो नरेन्द्र ॥
तेजोमयं सर्वगतं पुराणं भवोद्भवं पश्यति मुच्यते सः ॥११॥
तीर्थे विप्रवचो ग्राह्यं स्नात्वा सन्ध्यार्चनादिकम् ॥
दर्भास्तिला हविष्यान्नं प्रयोगाः श्रद्धया कृताः ॥१२॥
अगस्त्यं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥
कर्पूरागुरुश्रीखण्डं कुङ्कुमं तुलसीदलम् ॥ १३ ॥
बिल्वप्रमाणपिण्डेषु दीपोद्द्योतितभूमिषु ॥
ताम्बूल फलनैवेद्यं तिलदर्भोदकेन च ॥ १४ ॥
तीर्थे सङ्कल्पितं मर्त्यैस्तदनन्तं प्रजायते ॥
अयने विषुवे चैव सङ्क्रान्तौ ग्रहणेषु च ॥ १५ ॥
मासान्तेऽपर पक्षे तु क्षयाहे पितृमातृके ॥
गजच्छायां त्रयोदश्यां द्रव्ये प्राप्तौ द्विजोत्तमः ॥ १६ ॥
गृहे श्राद्धं प्रकुर्वीत पितॄणामृणमुक्तये ॥
गृहाच्छतगुणं नद्यां या नदी याति सागरम् ॥ १७ ॥
प्रभासे पुष्करे राजन्गङ्गायां पिण्डतारके ॥
प्रयागे नृपगोमत्यां भवदामोदराग्रतः ॥ १८ ॥
नर्मदादिषु तीर्थेषु कुर्याच्छ्राद्धं नरो यदि ॥
सर्वपापविनिर्मुक्तः पितरो यान्ति सद्गतिम्॥ १९ ॥
सन्तानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥
दिव्यं विमानमारुह्य प्रान्ते याति सुरालयम्॥ 7.2.12.२० ॥
जातकर्मादियज्ञेषु विवाहे यज्ञकर्मणि ॥
देवप्रतिष्ठाप्रारम्भे वृद्धिश्राद्धं प्रकल्पयेत् ॥ २१ ॥
तृप्यन्ति देवताः सर्वा स्तृप्यन्ति पितरो नृणाम्॥
वृद्धिश्राद्धकृतो गेहे जायते सर्वमङ्गलम् ॥ २२ ॥
कामः क्रोधश्च लोभश्च मोहो मद्यमदादयः ॥
माया मात्सर्यपैशुन्यमविवेको विचारणा ॥ २३ ॥
अहङ्कारो यदृच्छा च चापल्यं लौल्यता नृप ॥
अत्यायासोप्यनायासः प्रमादो द्रोहसाहसम् ॥ २४ ॥
आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ॥
अल्पाहारो निराहारः शोकश्चौर्यं नृपोत्तम ॥ २५ ॥
एतान्दोषान्गृहे नित्यं वर्जयन्यदि वर्तते ॥
स नरो मण्डनं भूमेर्देशस्य नगरस्य च ॥ २६ ॥
श्रीमान्विद्वान्कुलीनोऽसौ स एव पुरुषोत्तमः ॥
सर्वतीर्थाभिषेकश्च नित्यं तस्य प्रजायते ॥ २७ ॥
तदा तीर्थफलं सम्यक्त्यक्तदोषस्य जायते ॥
स्नानं सन्ध्या जपो होमः पितृदेवर्षितर्पणम् ॥
श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ॥ २८ ॥
प्रयागे वा कुरुक्षेत्रे सरस्वत्यां च सागरे ॥
गयायां वा रुद्रपदे नरनारायणाश्रमे ॥ २९ ॥
प्रभासे पुष्करे कृष्णे गोमत्यां पिण्डतारके ॥
वस्त्रापथे गिरौ पुण्ये तथा दामोदरे नृप ॥ 7.2.12.३० ॥
भीमेश्वरे नर्मदायां स्कान्दे रामेश्वरादिषु ॥
उज्जयिन्यां महाकाले वाराणस्यां च भूर्भुवः ॥ ३१ ॥
कालिन्द्यां मथुरायां च सकृद्याति नरो यदि ॥
सदोषो मुच्यते दोषैर्ब्रह्महत्यादिभिः कृतैः ॥ ॥ ३२ ॥
अपि कीटः पतङ्गो वा पक्षी वा सूकरोऽपि वा ॥
खरोष्ट्रकुञ्जरा वाजिमृगसिंहसरीसृपाः ॥ ३३ ॥
ज्ञानतोऽज्ञानतो राजंस्तेषु स्था नेषु ये मृताः ॥
सर्वे ते पुण्यकर्माणः स्वर्गं भुक्त्वा सुखं बहु ॥ ३४ ॥
चतुर्वर्णेषु सर्वे ते जायन्ते कर्मबन्धनात् ॥
कर्मबन्धं विहायाशु मुक्तिं यान्ति नराः पुनः ॥ ३५ ॥
मोदन्ते तीर्थमरणात्स्वर्गभोगावसानतः ॥
सम्प्राप्य भारते खण्डे कर्मभूमिं महोदयम् ॥ ३६ ॥
अनेकाश्चर्यसंयुक्तं बहुपर्वतमण्डितम् ॥
गङ्गायाः सरितः सर्वाः समुद्रैः सह सङ्गताः ॥ ३७ ॥
पदेपदे निधानानि सन्ति तीर्थान्यनेकशः ॥
येषां स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥ ३८ ॥
पातालमार्गा बहवः स्वर्गमार्गश्च दृश्यते ॥
गगने दृश्यते सूर्यो हृदये दृश्यते हरः ॥ ३९ ॥
ध्यानेन ज्ञानयोगेन तपसा वचसा गुरोः ॥
सत्येन साहसेनैव दृश्यते भुवनत्रयम् ॥ 7.2.12.४० ॥
वेदस्मृतिपुराणैश्च ये न पश्यन्ति भूतलम् ॥
पातालं स्वर्गलोकं च वञ्चितास्ते नरा इह ॥ ४१ ॥
ये विरज्यन्ति न स्त्रीषु कामासक्ता विचेतसः ॥
देहोन्यथा वरस्त्रीणामन्यथा तैश्च चिन्तितम् ॥ ४२ ॥
जन्मभूमिषु ते रक्ता जन्यन्ते जन्तवः पुनः ॥
मुक्तिमार्गात्पुनर्भ्रष्टा जायन्ते पशुयोनिषु ॥ ४३ ॥
धनानि सम्प्राप्य वराटिकां ये द्विजातिमुख्याय विधाय पूजाम् ॥
यच्छन्ति नो निर्मलचेतना ये नराधमा दैवहता मृतास्ते ॥ ४४ ॥
देहं सुपुष्टं विजरं च यौवनं लब्ध्वा न गङ्गादिषु यान्ति ये नराः ॥
माता पिता नो न सुतो न बान्धवो भार्या स्वसा नो दुहिता न विद्यते ॥ ४५ ॥
एकस्तु यो याति कथं न क्लिश्यते मूर्खो न जानाति भवं महेश्वरम् ॥
स्नात्वा न पश्यन्ति हरं महेश्वरं दैवेन ते वै मुषिता नराधमाः ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये यात्रा विधिवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥