॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मङ्गलात्पश्चिमे स्थितम् ॥
गङ्गास्रोतस्तथा लिङ्गं सुरार्कं च विशेषतः ॥ १ ॥
तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥
स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥
ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम् ॥ २ ॥
इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥
निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहन्ति पापसंहतिम् ॥ ३ ॥
इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥
श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गेश्वरमाहात्म्यवर्णनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥