००४ दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि दुन्नाविल्लेति विश्रुतम् ॥
योजनस्यान्तरे देवि पश्चिमे मङ्गलस्थितेः ॥ १ ॥
दुन्नको यत्र भीमेन भुक्त्वा त्यक्तः पुरा प्रिये ॥
तत्रैव विवरं दिव्यं महा पातालमार्गदम् ॥ २ ॥
तस्य कल्पः पुरा प्रोक्तः पातालोत्तरसङ्ग्रहे ॥
तत्र लिङ्गान्यनेकानि सिद्धस्थानानि षोडश ॥ ३ ॥
सुवर्णस्याकरः पूर्वं तत्स्थानमभवत्प्रिये ॥
तस्मिन्स्थाने नरैर्देवि गन्तव्यं भूतिलिप्सया ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥