॥ ईश्वर उवाच ॥
अथ वस्त्रापथे क्षेत्रे सन्ति तीर्थानि कोटिशः॥
तथापि सारं ते वच्मि सर्वतीर्थमहोदयम् ॥ १ ॥
दामोदरे नदी प्रोक्ता स्वर्णरेषेति या स्मृता ॥
ब्रह्मकुण्डं च तत्रैव तथा ब्रह्मेश्वरः स्मृतः ॥ २ ॥
कालमेघश्च सम्प्रोक्तो भवो दामोदरः स्मृतः ॥
गव्यूतिद्वितयेनैव कालिका तत्र कीर्तिता ॥ ३ ॥
इन्द्रेश्वरश्च तत्रैव रैवतः पर्वतस्तथा ॥
उज्जयन्तश्च तत्रैव देवः कुम्भीश्वरः स्मृतः ॥ ४ ॥
भीमेश्वरश्च तत्रैव ततः क्षेत्रं महाप्रभम् ॥
तैलसारणिकन्नाम त्रेतायां हैममारकम् ॥ ५ ॥
पञ्चगव्यूतिमात्रं तु तत्क्षेत्रं सम्प्रकीर्तितम् ॥
मृगीकुण्डं च तत्रैव सर्वपातकनाशनम् ॥ ६ ॥
एतद्वस्त्रापथं क्षेत्रं रत्नधात्वोस्तथाऽऽकरम् ॥
कथितं तव देवेशि पुनः सङ्क्षेपतो मया ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये प्रवरतीर्थानुकीर्तननाम तृतीयोऽध्यायः ॥ ३ ॥