००२ वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रं वस्त्रापथं पुनः ॥
यत्प्रभासस्य सर्वस्वं क्षेत्रं नाभिः प्रियं मम ॥ १ ॥
यत्र साक्षाद्भवो देवः सृष्टिसंहारकारकः ॥
पृथिव्यां स त्वधिष्ठाता तत्त्वानामादिमः प्रभुः ॥ २ ॥
स स्वयम्भूः स्थितस्तत्र प्रभासे भूतिदो भवः ॥
भवतीदं जगद्यस्मात्तस्माद्भव इति स्मृतः ॥ ३ ॥
यः सकृत्कुरुते यात्रां क्षेत्रे वस्त्रापथे पुनः ॥
विगाह्य तत्र तीर्थानि कृतकृत्यः स जायते ॥ ४ ॥
अथ दृष्ट्वा भवं देवं सकृत्पूज्यविधानतः ॥
केदारयात्राफलभाक्स भवेन्मनुजोत्तमः ॥ ५ ॥
चैत्रे मासि भवं दृष्ट्वा न पुनर्जायते भुवि ॥
वैशाख्यामथवा सम्यग्भवं दृष्ट्वा विमुच्यते ॥ ६ ॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां तु यत्फलम् ॥
तत्फलं निमिषार्द्धेन भवं दृष्ट्वा दिनेदिने ॥ ७ ॥
दुर्ल्लभस्तत्र वासस्तु दुर्ल्लभं भवदर्शनम् ॥
प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥ ८ ॥
येषां भवालये प्राणा गता वै वरवर्णिनि ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥ ९ ॥
वस्त्रापथे मतिर्येषां भवे येषां मतिः स्थिरा ॥
गोदानं तत्र शंसन्ति ब्राह्मणानां च भोजनम्॥
पिण्डदानं च तत्रैव कल्पान्तं तृप्तिमा वहेत्॥ 7.2.2.१० ॥
इति सङ्क्षेपतः प्रोक्तं माहात्म्यं ते भवोद्भवम् ॥
श्रुतं पापोपशमनं यज्ञायुतफलप्रदम् ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥