॥ ईश्वर उवाच ॥ ॥
अथ ते सम्प्रवक्ष्यामि क्षेत्रगर्भं महोदयम् ॥
तद्वस्त्रापथमाहात्म्यं यत्र रैवतको गिरिः ॥ १ ॥
दामोदरं रैवतके भवं वस्त्रापथे तथा ॥
एतद्रैवतकं क्षेत्रं वस्त्रापथमिति स्मृतम् ॥ २ ॥
सुवर्णरेवा यत्रस्था नदी पातकनाशनी ॥
यत्र साक्षात्स्थितः कृष्णो दामोदर इति स्मृतः ॥ ३ ॥
यत्र स्थितं मृगीकुण्डं महापातकनाशनम् ॥
सकृच्छ्राद्धे कृते यत्र कल्पकोटिसहस्रकम् ॥
पितॄणां जायते तृप्तिरपुनर्भवकाङ्क्षिणी ॥ ४ ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि दामोदरमहोदयम् ॥
क्षेत्रगर्भस्य माहात्म्यं कर्णिकारूपसंस्थितम् ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि दामोदरहरिं प्रति ॥
इतिहासं पुराख्यातमृषिभिः कल्पवासिभिः ॥ ६ ॥
गङ्गातीरे शुभे रम्ये पुण्ये जनपदाकुले ॥
ऋषिभिः सेविते नित्यं स्वर्गमार्गप्रदे ध्रुवम् ॥ ७ ॥
तत्र ज्ञानविदो विप्रा यजन्ति विविधैर्मखैः ॥
ऋषयः साङ्ख्ययोगेन दानेनैवेतरे जनाः ॥ ८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा स्वर्गमभीप्सवः ॥
सेवन्ते तज्जलं दिव्यं देवानामपि दुर्लभम् ॥ ९ ॥
तत्र राजा गजोनाम बली सर्वजनाधिपः ॥
गङ्गाजलाभिषेकार्थं त्यक्वा राज्यं जगाम ह ॥ 7.2.1.१० ॥
भार्या तस्य सती साध्वी पुत्रिणी रूपसंयुता ॥
साऽप्ययात्सह तेनैव भर्त्रा वै भर्तृवत्सला ॥ ११ ॥
सङ्गता नाम नाम्ना च दक्षा दाक्षायणी यथा ॥
एवं निवसतोस्तत्र वर्षाणामयुतं गतम् ॥ १२ ॥
आजगाम ऋषिस्तत्र भद्रोनाम महायशाः ॥
सहितो बहुभिर्विप्रैर्जपहोमपरायणैः ॥ १३ ॥
त्यक्त्वा संसारमार्गं तु स्वर्गमार्गजिगीषवः ॥
गङ्गानिषेवणं कृत्वा स्फोटयित्वाऽऽत्मजं मलम् ॥ १४ ॥
जलं दत्त्वा तु भूतेभ्यः पूजयित्वा जनार्द्दनम्॥
यावद्यान्ति नदीतीर ऋषयो भद्रकादयः ॥
तावत्पश्यन्ति राजानं गजं वरगजोपमम् ॥१५॥
तेनैव दृष्टा मुनयो राज्ञा निहतकल्मषाः ॥
सप्तर्षयो यथा स्वर्गे सुरराजेन धीमता ॥१६॥
तमृषिं स च सम्प्रेक्ष्य पदानि दश पञ्च च ॥
आगच्छन्त्वत्र पूजार्हा भवतो मम मन्दिरम्॥ १७ ॥
पश्यन्तु सङ्गतां सर्वे मम भार्यां यशस्विनीम् ॥
तस्याः पूजां समादाय यो मार्गो मनसि स्थितः ॥ १८ ॥
तं गच्छध्वं महाभागाः पुण्याः पुण्यमभीप्सवः ॥
एवमुक्तास्तु ते राज्ञा ऋषयः कौतुकान्विताः ॥
आजग्मुर्मन्दिरं शुभ्रं पुरन्दरपुरोपमम् ॥ १९ ॥
आसनानि विचित्राणि दत्त्वा तेषां मनस्विनी ॥
सङ्गता राजराजेन सार्द्धमग्रे व्यवस्थिता ॥7.2.1.२०॥
कृत्वा करपुटं राजा ऋषीणां पुण्यकर्मणाम् ॥
बभाषे वचनं राजा भद्रो भद्रं सुसङ्गतम्॥२१॥
वसुधा वसुसम्पूर्णा मण्डिता नगरी पुरी ॥
पर्वतैश्च समुद्रैश्च सरिद्भिश्च सरोवरैः ॥२२॥
ग्रामैश्चतुष्पथैर्घोरैर्गोकुलैराकुलीकृता ॥
नररत्नैरश्वरत्नैर्गजरत्नैस्तु सङ्कुला ॥ २३ ॥
दुस्त्यजा भोगभोक्तृणां परं ज्ञानमजानताम् ॥
संसारेऽत्र महाघोरे पुनरावृत्तिकारिणि ॥ २४ ॥
पतन्ति पुरुषा भद्र पत्राणीव पुनःपुनः ॥
कृतेन येन विप्रेन्द्र स्वर्गं प्राप्नोति निर्मलम् ॥
दानेन तपसा चैव तत्त्वमा चक्ष्व सुव्रत ॥ २५ ॥
॥ भद्र उवाच ॥ ॥
तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ॥
आत्मस्थं ये न पश्यन्ति ते न पश्यन्ति तत्परम् ॥ २६ ॥
सन्ति तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥
पुण्यतोया पवित्रश्च सरितः सागरास्तथा ॥
बहुपुण्यप्रदा पृथ्वी स्थानेस्थाने पदेपदे ॥ २७ ॥
यद्यस्ति तव राजेन्द्र ज्ञानं ज्ञानवतां वर ॥
विष्णुं जिष्णुं हृषीकेशं शङ्खिनं गदिनं तथा ॥ २८ ॥
चतुर्भुजं महाबाहुं प्रभासे दैत्यसूदनम् ॥
वाराहं वामनं चैव नारसिंहं बलार्जुनम् ॥ २९ ॥
रामं रामं च रामं च पुरुषोत्तममेव च ॥
पुण्डरीकेक्षणं चैव गदापाणिं तथैव च ॥ 7.2.1.३० ॥
राघवं शक्रदमनं गोविन्दं बहुपुण्यदम् ॥
जयं च भूधरं चैव देवदेवं जनार्द्दनम् ॥ ३१ ॥
सुरोत्तमं श्रीधरं च हरिं योगीश्वरं तथा ॥
कपिलेशं भूतनाथं श्वेतद्वीपपतिं हरिम् ॥ ३२ ॥
बदर्याश्रमवासौ च नरनारायणौ तथा ॥
पद्मनाभं सुनाभं च हयग्रीवं विशां पते ॥ ३३ ॥
द्विजनाथं धरानाथं खड्गपाणिं तथैव च ॥
दामोदरं जलावासं सर्वपापहरं हरिम् ॥३४॥
एतान्येव हि स्थानानि देवदेवस्य चक्रिणः ॥
गच्छते यत्र तत्रैव मुच्यते सर्वपातकैः ॥ ३५ ॥
गङ्गा च यमुना चैव तथा देवी सरस्वती ॥
दृषद्वती गोमती च तापी कावेरिणी तथा ॥ ३६ ॥ ॥
नर्मदा शर्मदा चैव नदी गोदावरी तथा ॥
शतद्रुश्च तथा विन्ध्या पयोष्णी वरदा तथा ॥ ३७ ॥
चर्मण्वती च सरयूर्गण्डकी चण्डपापहा ॥
चन्द्रभागा विपाशा च शोणश्चैव पुनःपुनः ॥ ३८ ॥
एताश्चान्याश्च बहवो हिमवत्प्रभवाः शुभाः ॥
तासु स्नातो नरः स्वर्गं याति पातकवर्जितः ॥ ३९ ॥
वनानि नन्दनादीनि पर्वता मन्दरादयः ॥
नामोच्चारेण येषां हि पापं याति रसातले ॥7.2.1.४० ॥
॥ गज उवाच ॥ ॥
भद्रं हि भाषितं भद्र आख्यानममृतोपमम् ॥
पृच्छामि सर्वधर्मज्ञ त्वामहं किञ्चिदेव हि ॥ ४१ ॥
यस्मिन्मासे दिने यस्मिंस्तीर्थे यस्मिन्क्रमान्नरैः ॥
अक्षयं सेव्यते स्वर्गस्तन्ममाचक्ष्व सुव्रत ॥ ४२ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
अक्षयो येन वै स्वर्गस्तन्मे गदितुमर्हसि ॥ ४३ ॥
॥ भद्र उवाच ॥ ॥
श्रूयतां राजशार्दूल कथां कथयतो मम ॥
यां श्रुत्वा मुच्यते पापान्नरो नरवरोत्तम ॥ ४४ ॥
ऋषीणां कथितं पूर्वं नारदेन महात्मना ॥ ४५ ॥
एवं पृष्टश्च तैः सर्वैर्नारदो मुनिसत्तमः ॥
कथयामास संहृष्टो मेघदुदुभिनिस्वनैः ॥ ४६ ॥
रम्ये हिमवतः पृष्ठे समवाये मया श्रुतम्॥
तदहं तव वक्ष्यामि श्रोतुकामं नरर्षभ ॥ ४७ ॥
तीर्थान्येव हि सर्वाणि पुनरावर्त्तकानि तु ॥
अक्षयाल्ँलभते लोकांस्तत्तीर्थं कथयामि ते ॥ ४८ ॥
मार्गशीर्षे कान्यकुब्ज उषित्वा राजसत्तम ॥
न शोचति नरो नारी स्वर्गं याति परावरम् ॥४९॥
पौषस्य पौर्णमासी या यदि सा क्रियतेऽर्बुदे ॥
वर्षाणामर्बुदं स्वर्गे मोदते पितृभिः सह ॥7.2.1.५०॥
माघ्यां यदि गयाश्राद्धं पितॄणां यच्छते नरः ॥
त्रयाणामपि देवानां चतुर्थः स प्रजायते ॥५१॥
फाल्गुन्यां हिमवत्पृष्ठे वसन्नेकां निशां नरः ॥
स याति परमं स्थानं यत्र देवो जनार्द्दनः ॥ ५२ ॥
चैत्र्यां श्राद्धं प्रभासे तु ये कुर्वन्ति मनीषिणः ॥
न ते मर्त्त्या भवन्तीह कुलजैः सह सत्तमाः ॥ ५३ ॥
चतुर्भुजे तु वैशाख्यां ये कुर्वन्ति जलप्रिये ॥
तथावन्त्यां नरः कश्चित्स याति परमां गतिम् ॥ ५४ ॥
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां श्राद्धं च त्रितकूपके ॥
कुर्युर्युगानि ते त्रीणि वसन्ति नाकसद्मनि ॥ ५५ ॥
यो व्रजेशवने नद्यां दिनानि नव पञ्च च ॥
तिष्ठते च नरः स्वर्गं वैकुण्ठमभिगच्छति ॥ ५६ ॥
श्रावणस्य तु मासस्य पूर्णायां पूर्वसागरे ॥
स्नानं दानं जपं श्राद्धं नरः कुर्वन्न शोचति ॥ ५७ ॥
तथा भाद्रपदे क्षेत्रे प्रभासे शशिभूषणम् ॥
पूजयित्वा नरो लिङ्गं देवलिङ्गी भवेत्ततः ॥ ५८ ॥
आश्विने चन्द्रभागायां श्राद्धं स्नानं करोति यः ॥
स्थानं युगसहस्राणां कृतं तेन त्रिविष्टपे ॥ ५९ ॥
अष्टाक्षरैश्चतुर्बाहुं ध्यायन्ति मुनिसत्तमाः ॥
बहुनाऽत्र किमुक्तेन गजाहं प्रवदामि ते ॥ 7.2.1.६० ॥