३६५ प्रकीर्णस्थानलिङ्गमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्यायाश्च उत्तरे ॥
सिद्धिस्थानानि दिव्यानि यत्र सिद्धा महर्षयः ॥ १ ॥
तत्र लिङ्गान्यनेकानि शक्यन्ते कथितुं न हि ॥
साग्रं शतं पुनस्तत्र लिङ्गानां प्रवरं स्मृतम् ॥२॥
वज्रिण्यास्तु तटे देवि लिङ्गान्येकोनविंशतिः ॥
न्यङ्कुमत्यास्तटे देवि सहस्रं द्विशताधिकम् ॥ ३ ॥
प्राधान्येन वरारोहे पूर्वे स्वायम्भुवेंऽतरे ॥
कपिलायास्तटेदेवि लिङ्गानां षष्टिरुत्तमा ॥ ४ ॥
सरस्वत्यां पुनस्तत्र लिङ्गसङ्ख्या न विद्यते ॥
एवं पञ्चमुखा देवि लिङ्गमाला विभूषिता ॥ ५ ॥
प्रभासे कथिता देवि पञ्चस्रोताः सरस्वती ॥
यस्याः प्रवाहैः सम्भिन्नं क्षेत्रं द्वादशयोजनम् ॥ ॥ ६॥
तत्र वापीषु कूपेषु यत्र तत्रोद्भवं जलम् ॥
सारस्वतं तु तज्ज्ञेयं ते धन्या ये पिबन्ति तत् ॥ ७ ॥
यत्रतत्र नरः स्नात्वा सम्यक्छ्रद्धासमन्वितः ॥
सारस्वतस्नानफलं लभते नात्र संशयः ॥ ८ ॥
यत्प्रोक्तं स्पर्शलिङ्गं तु श्रीसोमेशेति विश्रुतम् ॥
प्रभासक्षेत्रलिङ्गानां कला तस्यैव शाङ्करी ॥९ ॥
यद्वा तद्वा पूजयित्वा लिङ्गं क्षेत्रस्य मध्यगम् ॥
श्रीसोमेशमिति ज्ञात्वा सोमेशः पूजितो भवेत् ॥7.1.366.१०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रकीर्णस्थानलिङ्गमाहात्म्यवर्णनन्नाम पञ्चषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६५ ॥