॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोष्पदस्योत्तरे स्थितम् ॥
गव्यूतिद्वितयेनैव वलाय इति विश्रुतम् ॥ १ ॥
तत्रैकादशरुद्राणां स्थानलिङ्गान्यपि प्रिये ॥
अजैकपादहिर्बुध्न्यः सन्तीत्यादीनि नामतः ॥
पूजयेत्तानि विधिवन्मुच्यते सर्वपातकैः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रलिङ्गमाहात्म्यवर्णनन्नाम द्विषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६२ ॥