३६१ वर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मण्डूकेश्वरमित्यपि ॥
माण्डूक्यायननाम्ना वै लिङ्गं तत्र प्रतिष्ठितम् ॥ १ ॥
तत्र कोटिह्रदो देवि तथा कोटीश्वरः शिवः ॥
तत्र मातृगणश्चैव स्थितः कामफलप्रदः ॥ २ ॥
स्नात्वा कोटि ह्रदे तीर्थे तल्लिङ्गं यः प्रपूजयेत् ॥
मातॄस्तत्रैव सम्पूज्य दुःखशोकाद्विमुच्यते ॥ ३ ॥
तस्मात्पूर्वेण देवेशि योजनैकेन निर्मलम् ॥
त्रितकूपेति विख्यातं सर्वपातकनाशनम् ॥
सर्वेषां देवि तीर्थानां यत्तत्रैव व्यवस्थितिः ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटिह्रद मण्डूकेश्वरमाहात्म्य वर्णनं नामैकषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६१ ॥