॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ॥
घटिकास्थानमिति च यत्र सिद्धः पुरा ऋषिः ॥ १ ॥
नाड्यैकया मृकण्डस्तु ध्यानयोगाद्वरानने ॥
तत्रैव स्थापितं लिङ्गं मार्कण्डेश्वरनामतः ॥
सर्वपापोपशमनं दर्शनात्पूजनादपि ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कण्डेश्वरमाहात्म्यवर्णनन्नाम षष्ट्युत्तर त्रिशततमोऽध्यायः ॥ ३६० ॥