३५७ कोटीश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्मादीशानदिग्भागे तत्कोटिनगरं स्मृतम् ॥
तस्य दक्षिणदिग्भागे स्थितं योजनमात्रकम् ॥
कोटीश्वरं महालिङ्गं कोटियज्ञफलप्रदम् ॥ १ ॥
स्नात्वा तत्र विधानेन यस्तल्लिङ्गं प्रपूजयेत् ॥
स मुक्तः पातकैः सर्वैः कोटियज्ञफलं लभेत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनन्नाम सप्तपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५७ ॥