३५५ बहुसुवर्णेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं बहुसुवर्णकम् ॥
हिरण्यापूर्वदिग्भागे स्थाने बहुसुवर्णके ॥ १ ॥
धर्मपुत्रेण यत्रैव कृतो यज्ञः सुदुष्करः ॥
नाम्ना बहुसुवर्णेति स्थाप्य लिङ्गं महाप्रभम् ॥ २ ॥
सर्वक्रतूनां फलदं नाम्ना सर्वेश्वरं विदुः ॥
तत्रैव संस्थितं लिङ्गं पूर्णं सारस्वतैर्जलैः ॥ ३ ॥
स्नात्वा तत्र वरारोहे पिण्डदानं ददाति यः ॥
कुलकोटिं समुद्धृत्य रुद्रलोके महीयते ॥ ४ ॥
यस्तं पूज यते भक्त्या गन्धपुष्पैर्विधानतः ॥
कोटिपूजाफलं तस्य तथेत्याह सदाशिवः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बहुसुवर्णेश्वरमाहात्म्यवर्णनन्नाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५५ ॥