॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कर्दमालमनुत्तमम् ॥
तीर्थं त्रैलोक्यविख्यातं सर्वपातकनाशनम् ॥ १ ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥
चन्द्रार्कतपने नष्टे ज्योतिषि प्रलयं गते ॥ २ ॥
रसातलगतामुर्वीं दृष्ट्वा देवो जनार्दनः ॥
वाराहं रूपमास्थाय दंष्ट्राग्रेण वरानने ॥
उत्क्षिप्य धरणीं मूर्ध्ना स्वस्थाने सन्न्यवेशयत् ॥ ३॥
उद्धृत्य भगवान्विष्णुर्वाक्यमेतदुवाच ह ॥ ४ ॥
अत्र स्थाने स्थितेनैव मया त्वं देवि चोद्धृता ॥
ममात्र नियतं वासः सदैवायं भविष्यति ॥ ५ ॥
ये पितॄंस्तर्पयिष्यन्ति कर्दमाले वरानने ॥
आकल्पं तर्पितास्तेन भविष्यन्ति न संशयः ॥ ६ ॥
तत्र श्राद्धं करिष्यन्ति शाकैर्मूलफलेन वा ॥
भविष्यति कृतं श्राद्धं सर्वतीर्थेषु वै शुभे ॥ ७ ॥
अत्र तीर्थे नरः स्नात्वा यो मां पश्यति मानवः ॥
अपि कीटपतङ्गा ये निधनं यान्ति मानवाः ॥
ते मृतास्त्रि दिवं यान्ति सुकृतेन यथा द्विजाः ॥ ८ ॥
ततो द्वीपेषु जायन्ते धनाढ्याश्चोत्तमे कुले ॥
दंष्ट्राभेदेन यत्तोयं निर्गतं ते शरीरतः ॥ ९ ॥
तत्र स्नात्वा नरो देवि तिर्यग्योनौ न जायते ॥ 7.1.353.१० ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि यथावृत्तमाश्चर्यं तत्र वै पुरा ॥
मृगयूथं सुसन्त्रस्तं लुब्धकैः परिपीडितम् ॥
प्रविष्टं कर्दमाले तु सद्यो मानुषतां गतम् ॥ ११ ॥
अथ ते लुब्धका दृष्ट्वा विस्मयोत्फुल्ललोचनाः ॥
अपृच्छन्त च सम्भ्रातास्तान्मर्त्यान्वरवर्णिनि ॥ १२ ॥
मृगयूथमनुप्राप्तं केन मार्गेण निर्गतम् ॥
अथोचुस्ते वयं प्राप्ता मानुषं मृगरूपिणः ॥ १३ ॥
एतत्तीर्थप्रभावोऽयं न विद्मो ह्यात्म कारणम् ॥
ततस्ते लुब्धकास्त्यक्त्वा धनूंषि सशराणि च ॥
तत्र स्नात्वा महाभागे मुक्ताश्च सर्वपातकैः ॥ १४ ॥
॥ पार्वत्युवाच ॥ ॥
भगवन्विस्तरं ब्रूहि कर्दमालमहोदयम् ॥
उत्पत्तिं च विधानं च क्षेत्रसीमादिकं क्रमात् ॥ १५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि रहस्यं तु कर्द मालसमुद्भवम् ॥
गूढं ब्रह्मर्षिसर्वस्वं न देयं कस्यचित्त्वया ॥ १६ ॥
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥
चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ १७ ॥
एकार्णवं जगदिदं ब्रह्मापश्यदशेषतः ॥
तस्मिन्वसुमती मग्ना पातालतलमागता ॥ १८ ॥
ततो यज्ञवराहोऽसौ कृत्वा यज्ञमयं वपुः ॥
उद्दधार महीं कृत्स्नां दंष्ट्राग्रेण वरानने ॥ १९ ॥