३४८ माहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं मन्त्रविभूषणाम् ॥
भीमेश्वरस्य सान्निध्ये सोमेनाराधितां पुरा ॥ १ ॥
श्रावणे मासि विधिना या नारी तां प्रपूजयेत् ॥
तृतीयायां शुक्लपक्षे सा दुःखैर्मुच्यतेऽखिलैः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मन्त्रविभूषणागौरी माहात्म्यवर्णनन्नामाष्टाचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४८ ॥