३४७ नारदेश्वरीमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पश्चिमे नारदेश्वरीम् ॥
नारदेश्वरसान्निध्ये सर्वदौर्भाग्यनाशनीम् ॥ १ ॥
या नारी पूजयेद्देवीं तृतीयायां समाहिता ॥
तदन्वये न दौर्भाग्ययुक्ता नारी भविष्यति ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदेश्वरीमाहात्म्यवर्णनन्नाम सप्तचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४७ ॥