॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ॥
पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः ॥ १ ॥
तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ॥
सप्तम्यां रविवारेण धूप गन्धानुलेपनैः ॥
पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनन्नाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४६ ॥