॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं वै हाटकेश्वरम् ॥
जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः ॥ १ ॥
नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ॥
दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम् ॥ २ ॥
तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥ कलिभिर्मुच्यते जन्तुर्द्यूते च विजयी भवेत् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनन्नाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४५ ॥