३४२ चन्द्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्य दक्षिणनैर्ऋत्ये नातिदूरे व्यवस्थितम् ॥
लिङ्गं पापहरं देवि स्वयं सोमप्रतिष्ठितम् ॥ १ ॥
तत्रैवामृतकुण्डं तु कलाकुण्डं तु तत्स्मृतम् ॥
तत्र स्नात्वा तु चन्द्रेशं यो नरः पूजयिष्यति ॥ २ ॥
स तु वर्षसहस्रस्य तपःफलमवाप्स्यति ॥
तत्रैव संस्थितं देवि तडागं चन्द्रनिर्मितम् ॥ ३ ॥
धनुःषोडशविस्तारं चन्द्रेशात्पूर्वपश्चिमे ॥
तत्पूर्वं ते समाख्यातं मुक्तिदानादिपूर्वकम् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरमाहात्म्ये चन्द्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनन्नाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ॥ ३४२ ॥ ॥