॥ ईश्वर उवाच ॥ ॥
आशापूरं ततो गच्छेद्विघ्नराजमकल्मषम् ॥
शशिभूषण वायव्ये संस्थितं विघ्ननाशनम्॥
आशां पूरयते यस्मात्तेनाशापूरकः स्मृतः ॥१ ॥
यत्र रामेण देवेशि सीतया लक्ष्मणेन च ॥
समाराध्य च विघ्नेशं प्राप्तं काममभीप्सितम्॥ २ ॥
यत्र चन्द्रमसा देवि समाराध्य गणाधिपम् ॥
लब्धं तद्वाञ्छितं पूर्वं सर्वकुष्ठविनाशनम् ॥ ३ ॥
चतुर्थ्यां शुक्लपक्षे च मासि भाद्रपदे तथा ॥
तत्र सम्पूज्य देवेशं मोदकैर्भोजयेद्द्विजान् ॥ ४ ॥
वाञ्छितां लभते सिद्धिं विघ्नराजप्रसादतः ॥
क्षेत्रस्यास्य महादेवि रक्षार्थं तु मया पुरा ॥ ५ ॥
ततो नियुक्तो देवेशि यायिनां विघ्ननाशनः ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरविघ्नराज माहात्म्यवर्णनन्नामैकचत्शरिंशदुत्तर त्रिशततमोऽध्यायः ॥ ३४१ ॥