३३५ शङ्खावर्त्ततीर्थमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततः पश्चिमतो गच्छेन्न्यङ्कुमत्यास्तटे शुभे ॥
दक्षिणां दिशमाश्रित्य स्थितं तीर्थं महाप्रभम् ॥ १ ॥
शङ्खावर्त्तमितिख्यातं यत्र चित्राङ्किता शिला ॥
स्वयम्भूता महादेवि रक्तगर्भा सुशोभना ॥ २ ॥
छिन्ने त्वद्यापि तत्रैव सुरक्तं सम्प्रदृश्यते ॥
विष्णुक्षेत्रं हि तत्प्रोक्तं शङ्खो यत्र हतः पुरा ॥ ३ ॥
वेदापहारी देवेशि विष्णुना प्रभविष्णुना ॥
कृतं शखोदकं तीर्थं शङ्खाकारं तु दृश्यते ॥ ४ ॥
तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥
सप्त जन्मानि विप्रत्वं शूद्रस्यापि प्रजा यते ॥ ५ ॥
पूर्वं तत्रैव गत्वा च ततो रुद्रगयां व्रजेत् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शङ्खावर्त्ततीर्थमाहात्म्यवर्णनन्नाम पञ्चत्रिंशदुत्तरत्रिशत तमोऽध्यायः ॥ ३३५ ॥