॥ ईश्वर उवाच ॥ ॥
तस्माद्दक्षिणदिग्भागे धनुषां पञ्चभिः प्रिये ॥
तत्र तप्तोदकुण्डानि सन्त्यद्यापि वरानने ॥ १ ॥
कुण्डतः पूर्वदिग्भागे धनुषां पञ्चविंशतौ ॥
रुक्मिणी संस्थिता देवी सर्वपातकनाशिनी ॥ २॥
स्नात्वा तप्तोदके कुण्डे कोटिहत्याविनाशने॥
ततः सम्पूजयेद्देवीं रुक्मिणीं रुक्मदायिनीम् ॥
सप्त जन्मानि नारीणां गृहभङ्गो न जायते ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मिणीमाहात्म्यवर्णनन्नाम द्वात्रिंशदुत्तरत्रिशततमोऽध्याय ॥ ३३२ ॥