॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कालमेघेति विश्रुतम् ॥
तस्मात्तं पूर्वदिग्भागे क्षेत्रपं लिङ्गरूपिणम् ॥ १ ॥
अष्टम्यां वा चतुर्द्दश्यां पूज्योऽसौ बलिभिर्नरैः ॥
वाञ्छितार्थप्रदः सम्यक्स कलौ कल्पपादपः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालमेघमाहात्म्यवर्णनन्नामैकत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३१ ॥ ॥