॥ ईश्वर उवाच ॥ ॥
तस्मात्तदुन्नतस्थानादुत्तरे योजनत्रयात् ॥
तत्र तप्तोदकस्वामी तलो यत्र हतः पुरा ॥ १ ॥
दैत्यानामधिपो देवि विष्णुना प्रभविष्णुना ॥
कृत्वा वर्षशतं युद्धं तलस्वामी ततोऽभवत् ॥ २ ॥
तप्तकुण्डे नरः स्नात्वा तलस्वामिनमर्चयेत् ॥
हृत्वा पिण्डप्रदानं तु कोटियात्राफलं लभेत् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनन्नाम त्रिंशदुत्तरत्रिश ततमोऽध्यायः ॥ ३३० ॥