३२९ उन्नतविनायकमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः ॥
उत्तमस्थानमिति च प्रख्यातं धरणीतले ॥ १ ॥
तस्योत्तरे तु दिग्भागे धनुर्द्वादशकान्तरे ॥
उन्नतो विघ्नराजस्तु सर्वप्रत्यूहनाशनः ॥ २ ॥
चतुर्थ्यां पूजितः सम्यक्सुगन्धैः फलमोदकैः ॥ ददाति वाञ्छितान्कामांस्त्रैलोक्ये विजयी भवेत् ॥३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतविनायकमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३२९ ॥