॥ ईश्वर उवाच ॥ ॥
तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम् ॥
सङ्गमेश्वरनामाढ्यमृषयो यत्र सङ्गताः ॥ १ ॥
तस्यैव पूर्वदिग्भागे कुण्डिका पापनाशिनी ॥
वडवानलसंयुक्ता यत्रायाता सरस्वती ॥ २ ॥
कुण्डिकायां नरः स्नात्वा सङ्गमेश्वरमर्चयेत् ॥
तस्य जन्मसहस्राणि लक्ष्म्याः पुत्रै प्रियैः सह ॥
असङ्गमं महादेवि न कदाचित्प्रजायते ॥ ३ ॥
मुच्यते पातकैः सर्वैराजन्म मरणान्तिकैः ॥४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सङ्गमेश्वरमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२८॥