३२२ दुर्गादित्यमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य दक्षिणसंस्थितम् ॥
दुर्गादित्येतिनामानं सर्वपापप्रणाशनम् ॥ १ ॥
यदा दुःखमनुप्राप्ता दुर्गा दुःखविनाशिनी ॥
सूर्यमाराधयामास तदा दुःखविनुत्तये ॥ २ ॥
ततः कालेन बहुना तस्यास्तुष्टो दिवाकरः ॥
उवाच मधुरं वाक्यं दुर्गां देवो महाप्रभाम् ॥
वरं वरय देवेशि तपसा तुष्टवानहम् ॥ ३ ॥
॥ दुर्गोवाच ॥ ॥
यदि तुष्टो दिवानाथ दुःखसङ्घं विनाशय ॥ ४ ॥
॥ सूर्य उवाच ॥ ॥
अचिरेणैव कालेन भगवांस्त्रिपुरान्तकः ॥
सम्प्राप्स्यत्युत्तमं लिङ्गमुन्नते स्थान उत्तमे ॥ ५ ॥
दुर्गादित्येति मे नाम इह देवि भविष्यति ॥
एवमुक्त्वा महादेवि तत्रैवान्तर्दधे रविः ॥
सप्तम्यां रविवारेण दुर्गादित्यं प्रपूजयेत् ॥ ६ ॥
तस्य दुःखानि सर्वाणि कुष्ठानि विविधानि च ॥
विलयं यान्ति देवेशि दुर्गादित्यप्रपूजनात् ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसा हरुयां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गादित्यमाहात्म्यवर्णनन्नाम द्वाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२२ ॥