॥ ईश्वर उवाच ॥ ॥
तस्माच्च पूर्वदिग्भागे किञ्चिदाग्नेयसंस्थितम् ॥
लिङ्गद्वयं महापुण्यं विश्वकर्मप्रतिष्ठितम् ॥ १ ॥
यदा वै नगरं कर्तुं त्वष्टा तत्र समागतः ॥
प्रतिष्ठाप्य महादेवं नगरं कृतवांस्ततः ॥ २ ॥
कृत्वा च नगरं रम्यं लिङ्गस्यास्य प्रभावतः ॥
पुनः प्रतिष्ठितं र्लिगं तेन वै विश्वकर्मणा ॥ ३ ॥
कर्मादौ कर्मणश्चान्ते यात्रोद्वाहगृहादिके ॥
लिङ्गद्वयं पूजयित्वा सिद्धिमाप्नोति तत्क्षणात् ॥ ४ ॥
तस्मात्सर्वप्रयत्नेन गन्धामृतरसोदकैः ॥
नैवेद्यै विविधैर्देवि लिङ्गयुग्मं प्रपूजयेत् ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्ये लिङ्गद्वयमाहात्म्यवर्णनन्नाम विंशोत्तरत्रिशततमोऽध्यायः ॥ ३२० ॥