३१८ ब्रह्मेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्याश्च पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ॥
लिङ्गं महाप्रभावं हि सर्वपातकनाशनम् ॥ १ ॥
ब्रह्मेश्वरेति नामाढ्यं ब्राह्मणैश्च प्रतिष्ठितम् ॥
ऋषितोयाजले स्नात्वा तल्लिङ्गं यः प्रपूजयेत् ॥
स भवेद्वेदविद्विप्रो जाड्यभावविवर्जितः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनन्नामाष्टादशोत्तरत्रिशततमो ऽध्यायः ॥ ३१८ ॥