३१६ क्षेमादित्यमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अथ देवकुलात्पूर्वे पञ्चगव्यूतिमात्रतः ॥
शम्बरस्थान मध्ये तु क्षेमादित्येति विश्रुतः ॥ १ ॥
तं दृष्ट्वा मानवो देवि भवेत्क्षेमार्थसिद्धिभाक् ॥
सप्तम्यां रविवारेण पूजितः सर्वकामदः ॥ २ ॥
इति देवकुलस्थाने कथिता तीर्थसंस्थितिः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेमादित्यमाहात्म्यवर्णनन्नाम षोडशोत्तरत्रिशततमोऽध्यायः ॥ ३१६ ॥