॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मरुदार्यां महाप्रभाम् ॥
तस्मात्पश्चिमदिग्भागे क्रोशार्द्धेन व्यवस्थिताम् ॥ १ ॥
मरुद्भिः पूजितां देवीं सर्वकामफलप्रदाम् ॥
महानवम्यां यत्नेन सप्तम्यां पूजयेन्नरः ॥
गन्धपुष्पादिविधिना सर्वकामप्रसिद्धये ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मरुदार्यादेवीमाहात्म्यवर्णनन्नाम पञ्चदशोत्तरत्रिशततमोऽध्यायः ॥ ३१५ ॥