३१४ ऋषितीर्थसङ्गममाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अथ देवकुलाग्नेय्यां गव्यूत्या तत्र संस्थितम् ॥
समुद्रस्य तटे रम्यमृषितीर्थमनुत्तमम् ॥ १ ॥
पाषाणाकृतयस्तत्र ऋषयोऽद्यापि संस्थिताः ॥
दृश्यन्ते मानुषे देवि सर्वपातकनाशनाः ॥ २ ॥
तत्र ज्येष्ठे त्वमावास्यां प्राप्यते नाधमैर्न्नरैः ॥
पिण्डदानं विशेषेण स्नानं श्रद्धासमन्वितैः ॥ ३ ॥
ऋषितोयासङ्गमे तु स्नानं श्राद्धं सुदुर्लभम् ॥
गोप्रदानं प्रशंसन्ति तत्र ते मुनिपुगवाः ॥
भोजनं ब्राह्मणानां तु यथाशक्त्या प्रदापयेत् ॥४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मूलचण्डीशमाहात्म्य ऋषितीर्थसङ्गममाहात्म्यवर्णनन्नाम चतुर्दशोत्तरत्रिशततमोऽध्यायः ॥ ३१४ ॥