३११ स्वामिहरिमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम् ॥
चण्डीशात्पूर्वदिग्भागे धनुषां विंशतौ स्थितम् ॥ १ ॥
सर्वपापोपशमनं दारिद्र्यौघविनाशनम्॥
तं दृष्ट्वा पूजयित्वा च माघे मासि विशेषतः ॥
पूजा जागरणं कृत्वा तत्र गच्छेत्परं पदम् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोपाल स्वामिहरिमाहात्म्यवर्णनन्नामैकादशोत्तरत्रिशततमोऽध्यायः ॥ ३११ ॥