॥ ईश्वर उवाच ॥ ॥
तस्माद्वायव्यदिग्भागे धनुषां द्वितये स्थितम् ॥
कलम्बेश्वरनामानं सर्वपातकनाशनम् ॥ ॥ १ ॥
तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः॥।
सोमवारे त्वमावास्या तत्रैव बहुपुण्यदा ॥
विप्राणां भोजनं देयं तत्र पुण्य फलेप्सुभिः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कलम्बेश्वरमाहात्म्य वर्णनन्नाम दशोत्तरत्रिशततमोऽध्यायः ॥ ३१० ॥