॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥
चतुर्मुखेति विख्यातं चण्डीशादुत्तरे स्थितम् ॥ १ ॥
किञ्चिदीशानदिग्भागे धनुषां च चतुष्टये ॥
तं प्रयत्नाच्च सम्पूज्य सर्वविघ्नैः प्रमुच्यते ॥ २ ॥
गन्धपुष्पादिभिस्तत्र भक्ष्यैर्भोज्यैः समोदकैः ॥
चतुर्मुखं चतुर्थ्यां तु सम्पूज्य सिद्धिभाग्भवेत् ॥ ३ ॥
इति श्रीस्कान्दे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चतुर्मुखविनायक माहात्म्यवर्णनन्नाम नवोत्तरत्रिशततमोऽध्यायः ॥ ॥ ३०९ ॥