३०२ गन्धर्वेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गन्धर्वेश्वरमुत्तमम् ॥
तस्यैवोत्तरदिग्भागे धनुषां पञ्चके स्थितम् ॥१॥
तं दृष्ट्वा च महादेवि रूपवाञ्जायते नरः ॥
गन्धर्वैः स्थापितं लिङ्गं स्नात्वा सम्पूजयेत्सकृत् ॥
सर्वान्कामानवाप्नोति रक्तकण्ठश्च जायते ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनन्नाम द्व्युत्तरत्रिशततमोऽध्यायः ॥ ३०२ ॥