॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम्॥
शङ्खचक्रगदाधारी माधवस्तत्र संस्थितः ॥ १ ॥
एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ॥
यस्तं पूजयते भक्त्या गन्धपुष्पानुलेपनैः ॥
स याति परमं स्थानमपुनर्भवदायकम् ॥ २ ॥
अत्र गाथा पुरा गीता ब्रह्मणा लोककर्तृणा ॥
विष्णुकुण्डे नरः स्नात्वा यो वै माधवमर्चयेत् ॥
स यास्यति परं स्थानं यत्र देवो हरिः स्वयम् ॥ ३ ॥
एतत्ते सर्वमाख्यातं माहात्म्यं विष्णुदैवतम् ॥
सर्वकामप्रदं नृणां सर्वपातकनाशनम्॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये माधवमाहात्म्यवर्णनन्नाम नवनवत्युत्तरद्वि शततमोऽध्यायः ॥ २९९ ॥