॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयदिग्भागे गव्यूतिसप्तकेन च ॥
स्थानं देवकुलन्नाम देवानां यत्र सङ्गमः ॥ १ ॥
ऋषीणां यत्र सिद्धानां पुरा लिङ्गे निपातिते ॥
यस्माज्जातो महादेवि तस्माद्देवकुलं स्मृतम् ॥ २ ॥
तस्य पश्चिमदिग्भाग ऋषितोया महानदी ॥
ऋषीणां वल्लभा देवि सर्वपातकनाशिनी ॥ ३ ॥
तत्र स्नात्वा नरः सम्यक्पितॄणां निर्वपेन्नरः ॥
सप्तवर्षायुतान्येव पितॄणां तृप्तिमावहेत् ॥ ४ ॥
सुवर्णं तत्र देयं तु अजिनं कम्बलं तथा ॥
आषाढे त्वमावास्यायां यत्किञ्चिद्दीयते ध्रुवम् ॥ ५ ॥
वर्द्धते षोडशगुणं यावदायाति पूर्णिमा ॥ ६ ॥
सुवर्णं तत्र देयं तु अजिनं कम्बलं तथा ॥
मुच्यते पातकैः सर्वैः सप्तजन्मकृतैरपि ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयानदीमाहात्म्यवर्णनन्नाम षण्णवत्युत्तरद्विशततमोऽध्यायः ॥२९६॥ ॥