२९१ भद्रकालीमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्मादुत्तरभागे तु स्थानात्कौबेरसञ्ज्ञकात् ॥
भद्रकाली महादेवि वाञ्छितार्थप्रदायिनी ॥ १ ॥
दक्षयज्ञस्य विध्वंसे वीरभद्रसमन्विता ॥
भद्रकाली महादेवी दक्षयज्ञविनाशिनी ॥ २ ॥
चैत्रे मासि तृतीयायां देवीं तां यस्तु पूजयेत् ॥
नवकोट्यस्तु चामुण्डा भविष्यन्ति सुपूजिताः ॥
सौभाग्यं विजयं चैव तस्य लक्ष्मीर्भविष्यति ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यङ्कुमतीमाहात्म्ये भद्रकालीमाहात्म्यवर्णनन्नामैकनवत्युत्तरद्विशततमोऽध्यायः ॥ २९१ ॥