॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः ॥
पातालगामिनी गङ्गा संस्थिता पापनाशिनी ॥ १ ॥
विश्वामित्रेण चाहूता स्नानार्थं वरवर्णिनि ॥
तत्र स्नात्वा महादेवि मुच्यते सर्वपातकैः ॥ २ ॥
तत्र गङ्गेश्वरं दृष्ट्वा विश्वामित्रेश्वरं तथा ॥
बालेश्वरं च सम्प्रेक्ष्य सर्वान्कामानवाप्नुयात् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्ये पाताल गङ्गेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिङ्गत्रयमाहात्म्यवर्णनन्नामैकोननवत्युत्तरद्विशततमोऽध्यायः ॥ २८९ ॥