२८७ प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अजापालेश्वरीं शुभाम् ॥
अगस्त्यस्थानपूर्वेण नातिदूरे व्यवस्थिताम् ॥ १ ॥
रघुवंशसमुद्भूतो ह्यजापालो नृपोत्तमः ॥
स तत्र देवीमाराध्य पापरोगवशङ्करीम् ॥ २ ॥
अजारूपांश्च रोगान्वै चारयामास भूमिपः ॥
तत्र तां स्थापयामास स्वनाम्ना पापनाशिनीम् ॥। ॥ ३ ॥
यस्तां पूजयते भक्त्या तृतीयायां विधानतः ॥
बल बुद्धिर्यशो विद्यां सौभाग्यं प्राप्नुयान्नरः ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनन्नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ॥ २८७ ॥ ॥