२७२ वर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्प्राची देव्यास्तु सन्निधौ॥
लिङ्गत्रयं समाख्यातं त्रिपुराणां महात्मनाम् ॥१॥
विद्युन्माली तारकाख्यः कपोलाख्यस्तथैव च ॥
तैश्च प्रतिष्ठितं लिङ्गं दृष्ट्वा पापैः प्रमुच्यते ॥२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिपुरलिङ्गत्रयमाहात्म्य वर्णनन्नाम द्विसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७२॥