२७१ ज्वालेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यैव सन्निकृष्टे तु लिङ्गं ज्वालेश्वरं स्मृतम् ॥
शरः पाशुपतो यत्र ज्वलन्वै त्रिपुरारिणा ॥ १ ॥
पातितो यत्प्रदेशे तु तेन ज्वालेश्वरः स्मृतः ॥
तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ज्वालेश्वरमाहात्म्यवर्णनन्नामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥