॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विदुरस्याश्रमं महत् ॥
यत्राकरोत्तपो रौद्रं विदुरो धर्म मूर्त्तिमान् ॥ १ ॥
प्रतिष्ठाप्य महादेवं लिङ्गं त्रिभुवनेश्वरम् ॥
तं दृष्ट्वा मानवो देवि सर्वान्कामानवाप्नुयात् ॥२॥
विदुराट्टालकं नाम गणगन्धर्वसेवितम् ॥
द्वादशस्थानकं स्थानं नाल्पपुण्येन लभ्यते ॥ ३ ॥
नावर्षणं भवेत्तत्र कदाचिदपि पार्वति ॥
लिङ्गानि तत्र दिव्यानि पश्येत्पापोपशान्तये ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विदुराश्रम माहात्म्यवर्णनन्नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥२६९॥