२६७ गङ्गापथगङ्गेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि स्थानं गङ्गापथेति च ॥
यत्र गङ्गा महास्रोता गङ्गेश्वरः शिवस्तथा ॥ १ ॥
समुद्रगामिनी देवि सा गङ्गा पापनाशिनी ॥
उत्तानेति भुवि ख्याता नदी त्रैलोक्यभूषणा ॥ २ ॥
तत्र स्नात्वा महादेवि गङ्गेशं यस्तु पूजयेत्॥
मुक्तः स्यात्पातकैर्घोरैरश्वमेधायुतं लभेत्॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गापथगङ्गेश्वरमाहात्म्यवर्णनन्नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६७ ॥